Commons:सार्वजनिकस्य विवरणिकायां स्वागतम्/पाठ्यम्

From Wikimedia Commons, the free media repository
Jump to navigation Jump to search
This page is a translated version of a page Commons:Welcome to Commons brochure/text and the translation is 100% complete. Changes to the translation template, respectively the source language can be submitted through Commons:Welcome to Commons brochure/text and have to be approved by a translation administrator.

पृष्ठम् १

सचित्र विकिपीडिया

विकिमीडिया-सार्वजनिके योगदानं कर्तुं काचित् मार्गर्शिका

अहम् एतत् उत्तमं चित्रम् आकृष्टवान्/वती, तस्य विकिपीडिया-सचित्राय उपयोगं कर्तुं शक्नोमि! अर्थात्, मया उपयोगात् पूर्वं मम चित्रं विकिमीडिया-सार्वजनिके आरोपणीयम् इति।

पृष्ठम् २

कोटिशः सञ्चिकाभिः (files) युक्तं विकिमीडिया-सार्वजनिकम् अतीव बृहन् संयुक्त-माध्यम-संचिका-भण्डारः (online repositories of media files) अस्ति। सहस्रशः स्वयंसेवकैः कृतैः कार्यैः निर्मिते सार्वजनिके शैक्षणिकचित्रं, चलच्चित्रं, ध्वनिः च उपलभ्यते। तासां सर्वासां सञ्चिकानां विकिपीडिया-जाले, विकिमीडिया-संस्थानस्य अन्य-सहप्रकल्पेषु च उपयोगः भवति।

सार्वजनिकस्य सर्वं कार्यम् "अधिकारमुक्तं" भवति, अर्थात् केवलम् अधिकारनियमानाम् अनुसरणं कृत्वा तस्य कार्यस्य केनापि उपयोगः, वितरणं च शक्यते। सामान्यतः निर्मात्रे श्रेयः दत्त्वा, अधिकारनियमानां मर्यादायां च तस्य वितरणं शक्यं, येन अन्याः व्यक्तयः अपि तस्य पुनरुपयोगं कर्तुं शक्नुयुः।

विकिमीडिया-सार्वजनिके योगदानं कथम्?

तादृशस्य संसारस्य कल्पनां कुरु, यस्मिन् प्रत्येकं मनुष्यः सम्पूर्णज्ञानस्य भण्डारे स्वतन्त्रतया स्वज्ञानांशं दातुं शक्नुयात्। त्वमपि तत्र सहभागी भवितुम् अर्हसि। यदा त्वं स्वचित्रम्, अन्यसञ्चिकाः (files) च सार्वजनिके वितीर्य विकिपीडिया-जालस्य लेखान् सचित्रान् करोषि, तदा तव कार्यं सम्पूर्णविश्वस्य सहस्रशः, लक्षशः जनपर्यन्तं गच्छति। त्वं तादृशस्य सार्वजनिकभण्डारस्य साहाय्यं करोषि, यस्य विस्तारः असङ्ख्याकान् जनान् यावत् अस्ति; सार्वजनिकस्य कार्यस्य उपयोगं शैक्षणिकजालस्थानं, समाचारस्य संस्था, चलच्चित्रनिर्माता, छात्रः, अध्यापकः इत्यादयः कुर्वन्ति।

Neophron percnopterus - 01 / Kadellar / CC BY-SA 3.0


किं सार्वजनिके यत्किमपि स्थापयितुम् अनुमतिः अस्ति? एतादृशः भ्रमः भवति चेद्, अन्वेषणपेटिकायां Commons:Help Desk लिख। विकि-समुदायः सार्वजनिके सञ्चिकां (file) स्थापयितुं तव साहाय्यं करिष्यति, अस्वीकार्याः सञ्चिकाः च अपाकरिष्यति। अमुका सञ्चिका सार्वजनिके अस्ति वा न इत्यादीनां उत्तराणि तद्दलमेव दातुं शक्नोति।

पृष्ठम् ३

सार्वजनिके योगदानम्

अधिकारमुक्तत्वेन यदा त्वं स्वकार्यं विकिमीडिया-सार्वजनिक-जाले वितरसि, तदा त्वं सर्वेभ्यः तस्य उपयोगाय, प्रतिकृत्यै, परिवर्तनाय, विक्रयणाय च अधिकारं ददासि। (ते अधिकारनियमानां पालनं कुर्वन्ति तावत्पर्यन्तमेव।)

विकिपीडिया-सार्वजनिके किं स्वीकार्यम् अस्ति?

त्वं तानि कार्याणि तत्र आरोपयितुं शक्नोषि, यानि सम्पूर्णतया त्वया कृतानि स्युः। एतस्मिन् निम्नप्रकारकाणि चित्राणि, चलच्चित्राणि च अन्तर्भूतानि भवेयुः :

• प्राकृतिकं परिदृश्यं (भूदृश्यम्), प्राणी, वनस्पतिः

• प्रसिद्धव्यक्तीनां, जनसमूहस्य च सार्वजनिकस्थले चित्रं (स्थानीय-नियमानुसारं, केवलं स्वल्पपरिस्थितिषु सर्वसम्मत्या सह च)

• उपयोगीनि अथवा अकलात्मकानि वस्तूनि

मौलिकः आलेखः, मानचित्रम्, आरेखः (आकृतिः), ध्वनिः चापि आरोपयितुं शक्यते।

विकिपीडिया-सार्वजनिके किम् अस्वीकार्यम् अस्ति?

अन्यद्वारा कृतम् उत अन्यस्मिन् निर्भरं कार्यं सार्वजनिके अस्वीकार्यम् अस्ति - तस्य चित्रम् अपि अस्वीकार्यम्। सामान्यतः त्वम् अन्यस्य कस्यापि कार्यम् आरोपयितुं न शक्नोषि। तस्य कृते काश्चन सामग्र्यः अनिवार्येण योजनीयाः :

• मुद्राः

• CD/DVD मुखपृष्ठानि

• विज्ञापनचित्राणि

• टि.वि. कार्यक्रमः, चलच्चित्रं, DVDs, तन्त्रांशः (software) इत्यादीनां स्क्रिन्शोट्स्

• हास्यपत्रिका (comic), टि.वि., चलच्चित्रम् इत्यादिभ्यः स्वीकृतं कस्यापि पात्रस्य रेखाचित्रं(sketch), भवतु तस्य निर्माता त्वमसि।

• अन्तर्जाले प्रकाशितानि अधिकतमानि चित्राणि

तथापि, केचन अपवादाः अपि सन्ति :

• यदि रचनाकारः सर्वेभ्यः उपयोगाय, प्रतिकृत्यै (copy), परिवर्तनाय, विक्रयणाय च अनुमतिं ददाति, तर्हि त्वम् अन्यस्य कार्यमपि आरोपयितुं शक्नोषि। (स्रोतसः परिसन्धिः (link) अनिवार्यतया देयः, यत्र अधिकारोल्लेखः भवति।)

• त्वं कस्यचित् अन्यस्य सार्वजनिकं कार्यम् अपि आरोपयितुं शक्नोषि। (सामान्यतः अतीव पुरातनं कार्यम्)

• त्वया कृतं सार्वजनिकं कार्यम् अपि त्वम् आरोपयितुं शक्नोषि, यथा पुरातनस्य भवनस्य, मूर्तेः, कलायाः चित्रादिकम्।

पृष्ठम् ४

सार्वजनिके योगदानं कर्तुं त्वम् अनिवार्यत्वेन सदस्यः स्याः। यदि तव विकिपीडिया-लेखा (account) पूर्वस्मादेव निर्मिता अस्ति, तर्हि तेन प्रवेश्यताम् (login)। अन्यथा त्वया नूतनायाः लेखायाः रचना करणीया। (तस्याः लेखायाः त्वं विकिपीडिया-जाले, अन्य-विकिमीडिया-परियोजनासु च उपयोगं कर्तुं शक्नोषि)

स्वीकार्याणां सञ्चिकानां (file) प्रकारः

एकस्वाधिकारेण (patent) यः वर्ज्यः न स्यात्, तस्य प्रकारस्य एव सार्वजनिके स्वीकारः भवति। यथा :

चित्रेभ्यः : .jpg

आलेखेभ्यः : .svg, .png

चित्रचालनेभ्यः (animation) : .gif

ध्वनये (audio) : .ogg (or .oga), .flac

विडियो इत्यस्य कृते : .ogg (or .ogv), .webm

मुद्रितपत्रेभ्यः (printout) : .pdf

सार्वजनिके अन्ये के प्रकाराः स्वीकार्याः सन्ति इत्यस्य अधिकं विवरणं प्राप्तुम् अन्वेषणपेटिकायां Commons:File types लिख।

सञ्चिकायाः (file) आरोपणं कथं क्रियते?

commons.wikimedia.org इत्यत्र गत्वा 'सञ्चिका उपारोप्यताम्' इत्यस्मिन् नुद।

(त्वं प्रविष्टः/टा (logged in) अस्ति वा नास्ति इति निश्चितं कुरु)

Cabo Espichel, Portugal, 2012-08-18, DD 08 / Poco a poco / CC BY-SA 3.0

पृष्ठस्य अधोभागे वामकोणे "अग्रिमम्" उपरि नुदत।

स्वस्य सङ्गणकात् आरोपयितुं सञ्चिकां (file) चिनुत।

सञ्चिका तव अस्ति उत अन्यस्य इति चयनं कुरु।

यदि तत् कस्यापि अन्यस्य कार्यम् अस्ति, तर्हि रचनाकारस्य नाम, स्रोतः च दद। तथा च निश्चितस्य अधिकारपत्रस्य (copyright) चयनं कुरु।

पृष्ठम् ५

सञ्चिकां व्याख्यायितुम् अद्वितीयं (unique) शीर्षकं दद, सञ्चिकायाः विस्तृतं विवरणञ्च दद।

सञ्चिकां योग्यतया श्रेणीब्धां कर्तुम् एकं वर्गम् उत अधिकान् वर्गान् योजयत ।

वर्ग-योजनम्

समानसञ्चिकानां सङ्कलनं कर्तुं विकिमीडिया-सार्वजनिके वर्गाः भवन्ति। उदा. सार्वजनिके आरोपितानि भारतमातुः विभिन्नानि चित्राणि Category:Bharat Mata' इत्यस्मिन् सङ्कलितानि सन्ति। आरोपणस्य प्रक्रियाकाले एव त्वं वर्गं योजयितुं शक्नोषि (यदा त्वं वर्गस्य नाम लेखिष्यसि, तदा तत् पृष्ठस्य विकल्पान् अपि प्रदर्शयिष्यति), अथवा सञ्चिकायाः पृष्ठस्य सम्पादनं कृत्वा निम्नं कूटं (code) अन्ते योजयितुं शक्नोषि :

[[Category:Bharat Mata]]

मुख्यशब्दस्य (keyword), नाम्नः च उपयोगेन त्वं सार्वजनिके स्थापितां सञ्चिकां, वर्गं च प्राप्तुं शक्नोषि; त्वया आरोपितायाः सञ्चिकायाः समानाः याः अन्याः संचिकाः सन्ति, ताभिः सह स्वस्य सञ्चिका वर्गबद्धा करणीया। वर्गकरणं तदा अतीव महत्त्वपूर्णं भवति, यदा कोऽपि अन्यः जनः समानविषये माध्यमानि (media) अन्विषति।

सञ्चिकायाः आरोपणस्य कार्ये सम्पन्ने सति तां विकि-पृष्ठे, अन्य-जालस्थाने च प्रयोक्तुम् अनुदेशं (instruction) प्राप्स्यसि।

शीर्षके नुदित्वा स्वसञ्चिकायाः स्थायि-विकि-पृष्ठं गन्तुं शक्नोषि।

सञ्चिकायाः प्रकारेण सह त्वया यत् शीर्षकं निर्धारितम् आसीत्, तत् अधुना सञ्चिका-पृष्ठस्य नाम जातम्।

... Bharat Mata bronze दृश्यते

पृष्ठम् ६

विकिपीडिया-लेखे सञ्चिकायाः (file) योजनम्

एकवारं विकिमीडिया-सार्वजनिके स्वस्य सञ्चिका आरोपिता, पश्चात् यथादृश्यसम्पादिकायाः साहाय्येन तस्याः विकिपीडिया-लेखे उपयोगः शक्यः, अन्यस्य विकिकूटस्य (code) आवश्यकतां विना। केवलं एतेषां सोपनानाम् अनुसरणं करुत।

सम्पाद्यताम्, योज्यताम्, माध्यमानि इत्येतानि कुड्मलानि क्रमेण नुदत।

“Bharat Mata” / Wikipedia contributors / CC BY-SA 3.0

Bonsai IMG 6397 / Dake / CC BY-SA 2.5

अन्वेषणं कृत्वा ईप्सितं चित्रं नुदत।

yanam at perry/mother india idle/it is the bigest idle / सार्वजनिकम्

All others / Sage Ross / CC BY-SA 3.0

चित्रस्य विवरणं लिखित्वा चित्रस्य चयनं कृत्वा माध्यमचिह्नं (media icon) नुदत।

चित्रस्य स्थानन्तरणं कर्तुं तत् कर्षयित्वा नेतुं शक्नुत।

पृष्ठं रक्ष्यताम्।

पृष्ठम् ७

विकि-कूटस्य उपयोगं कृत्वा सञ्चिकायाः (file) स्थापनम्

यदि यूयं यथादृश्यसम्पादिकां विना विकि-पृष्ठे चित्रम् उत माध्यमं स्थापयितुं प्रयतध्वे, तर्हि विकि-कूटस्य (code) उपयोगः आवश्यकः। चित्रस्थापनाय सामान्यः विकि-कूटः इत्थम् अस्ति :

द्वौ आरम्भिकौ चतुष्कोणकोष्ठकौ

पाइप् : प्रत्येकं विकल्पं (प्राचलं) विभक्तं करोति

उत्सर्गे (default) चित्रं दक्षिणतः दृश्यते। अत्र वामतः (left), मध्ये (center) चापि विकल्पः भवति।

द्वौ मुकुलितौ (closed) चतुष्कोणकोष्ठकौ

File:Bharat Mata bronze.jpg | thumb | 260px | right | सिंहारूढायाः भारतमातुः कांस्यमूर्तिः - यानम

सार्वजनिकस्य चित्रस्य नाम : "चित्रम्:" इत्यस्माद् आरभ्यते, चित्रस्य प्रकारोल्लेखे च समाप्तिः भवति (यथा, ".jpg")

thumb: लघुचित्ररूपेण चित्रस्य उपयोगं कर्तुं एषः शब्दः योज्यते।

size: चित्राय निश्चतम् औन्नत्यं, वैशाल्यं च दातुं पिक्सल् इत्यस्य उपयोगः भवति। यूयं अत्र पिक्सल्-सङ्ख्यां योजयितुं शक्नुत अथवा वास्तविके आकारे उपयोगः शक्यते।

विवरणम् : अन्तिमस्य पाइप्-चिह्नस्य पश्चात् चित्रस्य विवरणं लेखितुं शक्यते

आरोपणसहायकस्य (upload wizard) अन्तिमात् पृष्ठात् यूयं सामान्यं कूटं स्वीकर्तुं शक्नुत अथवा सञ्चिकायाः (file) पृष्ठं गत्वा 'सञ्चिकायाः उपयोगः' इत्यस्मिन् नुदित्वा प्रतिकृतिं (copy) कर्तुं शक्नुत। विकि-कूटः कस्मिँश्चिद् अन्यपृष्ठेऽपि स्थापयितुं शक्यते, यत्र यूयं तां सञ्चिकां स्थापयितुम् इच्छथ।

“Washington, D.C./Northeast” / Wikivoyage contributors / CC BY-SA 3.0

यदा यूयं विकि-कूटं योजयथ, तदा "परिवर्तनानि रक्ष्यन्ताम्" इत्यस्मिन् नुदत। युष्माकं चित्रं ततः पाठ्येन सह द्रक्ष्यते।

John Naka’s Goshin, October 10, 2008 / Sage Ross / CC BY-SA 3.0

Near Northeast map / Peter Fitzgerald / CC BY-SA 3.0

प्रयत्नं कुर्मः... अहं मम चित्रम् अत्र योजयिष्यामि। कूटस्य प्रतिकृतिं कृत्वा एतस्मिन् लेखे स्थापयिष्यामि। ततश्च विवरणं योजयित्वा पृष्ठं रक्षिष्यामि!

पृष्ठम् ८

सञ्चिकायाः (file) अन्यस्मिन् जालस्थाने प्रयोगः

सार्वजनिके आरोपितं कार्यं कस्मैचिद् अपि अन्यजालस्थानाय उपलब्धं भवति। सञ्चिकायाः (file) विकि-पृष्ठे अधिकारपत्रस्य निर्देशः भवति। केभ्यश्चित् कार्येभ्यः कोऽपि निषेधः नास्ति। (केचन अधिकारमुक्ताः न भवन्ति यथा - परिचययोग्यायाः व्यक्तेः चित्राय तु अनुमतिः स्वीकरणीया एव।) अधिकारमुक्तेन सह कार्यं कर्तुं युष्माभिः अपि केषाञ्चन नियमानाम् अनुसरणं करणीयम् एव। सामान्यतः रचनाकारस्य नाम, अधिकारपत्रस्य च उल्लेखः करणीयः एव। अन्यस्थितिषु यूयं सार्वजनिके स्थितस्य सञ्चिकापृष्ठस्य परिसन्धिम् (link) एव स्थापयत।

सार्वजनिकस्य सञ्चिकायाः अन्यजालस्थाने प्रयोगाय सर्वोत्तमः मार्गः अस्ति यत्, सञ्चिकया सह श्रेयोपङ्क्तिं योजयत :

Pair of Merops apiaster feeding, Pierre Dalous, CC BY-SA 3.0

कार्यस्य रचनाकारः यथा शीर्षकं दत्तवान्, तथैव उल्लिखत

रचनाकारस्य नाम

रचनाकारेण यस्य अधिकारपत्रस्य उपयोगः कृतः, तस्य उल्लेखं कुरुत

सञ्चिकायाः (file) वास्तविकपृष्ठस्य च परिसन्धिं (link) योजयत, येन अन्यजनाः अपि तस्य मूलसंस्करणस्य उपयोगं कर्तुं प्रभवेयुः।

रचनाकारस्य पृष्ठस्य उत जालस्थानस्य परिसन्धिम् अपि योजयत, यदि उपलब्धः अस्ति

परिसन्धिना (link) सह क्रियेटिव्-कोमन्स्-अधिकारस्य परिसन्धिम् अपि ददत

यदि किमपि चित्रं साक्षात् सार्वजनिकेन सह योजयितुम् (embed) इच्छसि, तर्हि "सञ्चिकायाः उपयोगः" इत्यस्मिन् नुदित्वा कूटं (code) प्राप्तुं शक्नोषि।

पृष्ठम् ९

दूरभाषेण (mobile) आरोपणं कथम्

यदि त्वं स्मार्ट्-फोन्-धारकः अथवा अन्य-केमेरा-सहित-दूरभाषस्य धारकः वा असि, तर्हि त्वं चित्राणि साक्षात् आरोपयितुं शक्नोषि। तस्य कृते त्वया विकमीडिया-सार्वजनिकस्य एन्ड्रोट्-तन्त्रस्य उत आई.एस्.ओ-तन्त्रस्य तन्त्रांशः (app) स्वीकरणीयः। तथा च त्वं विकिमीडिया-जालस्य दूरभाष-संस्करणस्यापि उपयोगं कर्तुं शक्नोषि।

दूरभाषस्य एप्स

एन्ड्रोइट् अथवा आई.ओ.एस् इत्यस्य विकिमीडिया-सार्वजनिक-एप्स्-द्वारा त्वं निम्नानि कार्याणि कर्तुं प्रभवसि :

• चित्रस्य आरोपणं, विवरणलेखनं, वर्गस्थापनञ्च

• स्वेन आरोपितानां सर्वेषां चित्राणां दर्शनम्

एप्-स्टोर् अथवा QR code इत्यस्य साहाय्येन त्वं "Wikimedia Commons" इत्यस्य एप् निःशुल्कं प्राप्तुं शक्नोषि।

दूरभाषजालम्

यदि त्वं विकिपीडिया अथवा विकिमीडिया इत्यस्य अन्यपिरयोजनानां दूरभाष-संस्करणस्य उपयोगं करोषि, तर्हि त्वं प्रवेशं (login) कृत्वा :

• चित्रम् आरोपयित्वा वास्तविकचित्राणि तेषु लेखेषु साक्षात् स्थापयितुं शक्नोषि, येषु चित्राणि न सन्ति।

• सार्वजनिके त्वया रचितं किमपि शैक्षणिकं चित्रं वितरितुं शक्नोषि।

• त्वया सद्यः आरोपितानि चित्राणि द्रष्टुं प्रभवसि।

पश्य, कुत्र तत् चित्रं सहायकं भवितुम् अर्हति।

आपरोणं कर्तुं स्वस्य चित्रस्य विवरणं दद।

परिणामः दृश्यताम्।

“Bharat Mata” / Wikipedia contributors / CC BY-SA 3.0

Small-leaved Elm Ulmus minor bonsai 257, December 24, 2008 / Sage Ross / CC BY-SA 3.0

पृष्ठम् १०

प्रतिकृति-अधिकारस्य (copyright license) विषये काश्चन भ्रामकधारणाः

“अहम् अधिकारमुक्ततया स्वस्य चित्रं प्रकाशितवान्, अर्थात् अहं स्वस्य सर्वान् अधिकारान् त्यक्तवान्।”

“अहं स्वस्य चित्रस्य स्वामी अस्मि, अतः अहम् अधिकारधारकः अस्मि।”

“अहं स्वयम् एतस्य अधिकारयुक्तस्य चित्रस्य प्रतिकृतिं कृतवान्, अतः एतत् कस्यापि अन्यस्य अधिकारक्षेत्रे अन्तर्भवितुं न शक्नोति।”

“अहम् एतस्य कार्यस्य प्रतिबिम्बं (scanned) स्वीकृत्य परिवर्तनं कृतवान्/वती, अतः एतस्मिन् संस्करणे मम एव व्यक्तिगतः अधिकारः अस्ति।”

अव्यावसायिकाय (NonCommercial -NC) निषिद्धस्य, अधिकारयुक्तस्य च कार्यस्य विकिमीडिया-सार्वजनिकः स्वीकारं न करोति। "स्वस्य शैक्षणिककार्यस्य अधिकाधिकं वितरणं स्यात्" इति सार्वजनिकस्य, विकिपीडिया-जालस्य च उद्देशः वर्तते। रचनाकारः, प्रकाशकः, चलच्चित्रनिर्माता, कलाकारः, अन्यजनाः च अधिकारमुक्तकार्याणाम् आधारेण स्वस्य कार्यं रचयितुं शक्नुयुः, यच्च तैः महत्त्वपूर्णं निर्मितम् अस्ति, तत् ते स्वतन्त्रतया विक्रेतुं शक्नुयुः। (ये जनाः स्वेन निर्मितस्य कार्यस्य समानं कार्यं विक्रेतुं प्रतिशेषं कुर्वन्ति, तैः जायमानं व्यावसायिकं शोषणं ShareAlike restriction अवरोधयति।)

अधिकरमुक्तम् (free license) इत्युक्ते किम्?

या व्यक्तिः कार्यस्य निर्माणं करोति, सा एव कार्यस्य अधिकारिणी स्वामिनी भवति। एतदेव वस्तुतः "प्रतिकृतेः अधिकारः" इति उच्यते। रचनाकारेण यदि स्वस्य नियोक्त्रे (employer) कार्यं कृतम् अथवा न्यायीकपद्धत्या अन्यस्मै अधिकारः स्थानान्तरितः, तर्हि सः स्वयं स्वामी न भवति। स्वकार्यस्य उपयोगाय अन्यस्मै अनुमतिं दातुम् अपि व्यक्तिः प्रतिकृति-अधिकारस्य उपयोगं करोति।

अधिकारमुक्तः इत्येषः विशिष्टः अधिकारः अस्ति, यः कथयति यत्, कस्मै अपि, कस्मै अपि उद्देशाय च रचनाकारः स्वकार्यस्य उपयोगाय अनुमतिं ददातीति। उपयोगकर्त्रा तस्य कृते अनुमतेः आवश्यकता न भवति। अधिकारमुक्तस्य उपयोगे स्वस्य कार्यं सरलतया अन्येन सह वितरितुं शक्यते।

Creative Commons Attribution-ShareAlike license (CC BY-SA) एषः विकिमीडिया-सार्वजनिकस्य उत्सर्गः (default) अधिकारः वर्तते, यः निश्चितं करोति यत्,

एतस्य अधिकारस्य अन्तर्गततया यानि कार्याणि प्रकाशितानि भविष्यन्ति, तेषां कोऽपि :

• उपयोगं, प्रतिकृतिं, वितरणं कर्तुं शक्नोति; अथवा

• परिवर्तनं कृत्वा नवीनं कार्यं वितरितुं शक्नोति

निम्नासु परिस्थितिषु व्यक्तिः तस्य उपोयगं कर्तुं शक्नोति :

• वास्तविकाय रचनाकाराय श्रेयः दत्त्वा अधिकारपत्रस्य उल्लेखं कृत्वा;

• समान-अधिकारस्य अन्तर्गततया किमपि संयुक्तं कार्यं प्रकाशयितुं शक्नोति (ShareAlike, इति copyleft नाम्ना अपि प्रसिद्धम्।)

CC BY-SA

अधिकार-चिह्नं (Attribution), शेर-अ-लिंक-चिह्नं (ShareAlike) च विकिमीडिया-सार्वजनिक-द्वारा दीयते। तत् सङ्केतयति यत्, त्वं स्वस्य कार्यस्य श्रेयः स्वीकर्तुम् इच्छसि, कोऽपि यौगिकं कार्यं (मिश्रितं कार्यं) च एतस्य अनुच्छेदस्य अन्तर्गततया वितरितुं शक्नोति इति।

CC BY

यदा जनाः तव कार्यस्य उपयोगं कुर्युः, तदा यदि त्वं श्रेयः इच्छसि, परन्तु तव कार्ये परिवर्तनं कृत्वा नवीनं मिश्रकार्यं ते कस्यापि अधिकारपत्रस्य अन्तर्गततया प्रकाशितं कुर्युः तस्य कृते यदि समस्या नास्ति, तर्हि त्वया एतस्य 'क्रिएटिव् कोमन्स्'-अधिकारपत्रस्य चयनं करणीयम्।

CC शून्यम् (zero)

यदि स्वकार्याय त्वं श्रेयः अपि नेच्छसि, सर्वनिषेधमुक्ततया च त्वं स्वकार्यं प्रकाशयितुम् इच्छसि, तर्हि त्वं CC शून्य-सार्वजनिकस्य अन्तर्गततया स्वस्य सर्वान् अधिकारान् त्यज।

पृष्ठम् ११

अधिकारमुक्त-चित्रस्य अन्वेषणम्

विकिपीडिया-लेखेषु उपयोगाय, सार्वजनिके आरोपणाय च चित्रम् अधिकारमुक्तस्थानेषु, अन्यसार्वजनिकेषु स्थानेषु च अन्वेष्टुं शक्नुमः। यदि कोऽपि विषयः स्वयम् अधिकारमुक्तः अस्ति, तर्हि यस्य कस्यापि विषयस्य कृते अधिकारमुक्तं चित्रं प्राप्तुं सर्वश्रेष्ठं स्थानं फ्लिकर् (Flickr) अस्ति। अधिकारमुक्तं सार्वजनिकं वैज्ञानिकं मासिकम् इत्यादि, यथा वैज्ञानिकमासिकानां सार्वजनिक-ग्रन्थालये विज्ञानस्य, ओषधेः च उपयोगाय चित्राणि प्राप्यन्ते।

यदा त्वं तानि चित्राणि विकिमीडिया-सार्वजनिके आरोपयति, तदा त्वया केवलं "एतत् कार्यं मम न" इत्यस्य चनयं कृत्वा रचनाकारस्य नाम, स्रोतसः परिसन्धिः, योग्याधिकारपत्रस्य चयनं च करणीयम् अस्ति। "क्रिएटिव् कोमन्स् सर्च" इत्यस्य उपयोगं कृत्वा अधिकारमुक्ताः सञ्चिकाः (files) अन्विष्यन्ताम् :

उभौ विकल्पौ ध्यानेन पश्य : "अहं तादृशं कार्यं कर्तुम् इच्छामि, यस्याहं व्यापारिकोद्देशाय उपयोगं कर्तुं परिवर्तनं कृत्वा, साक्षात् स्वीकृत्य, तस्याधारेण वा किमपि रचयितुं शक्नुयाम्।"

किमेतत् सार्वजनिके अस्ति?

सार्वजनिके स्थितं किमपि कार्यं न कस्यापि अधिकारक्षेत्रे अन्तर्भवति। केभ्यश्चन सार्वजनिककार्येभ्यः अधिकारस्य नियमाः कालातीताः अभूवन्। ते कदा, कथं कालातीताः ?इति जटिलः प्रश्नः। परन्तु देशानुसारं, कार्यस्य प्रकारानुसारं च ज्ञानं भवति। प्रथमे स्थाने अन्यकार्यकर्तारः अनुमिताः न भवन्ति। कासुचित् स्थितिषु च रचयिता एव स्वाधिकाराणां त्यागम् अकरोत्।

अमेरिकासंयुक्तराष्ट्रे, स्थानीयदेशे च (यत्र तत् कार्यं जातम् आसीत्) किमपि कार्यं सार्वजनिकं जातं स्यात्, तर्हि त्वं तत् कार्यं विकिमीडिया-सार्वजनिके आरोपयितुं शक्नोषि।

अत्र केचन नियमाः सन्ति। तत् कार्यं सार्वजनिके अस्ति, यदि :

• १९२३ तमवर्षस्य पूर्वं अमेरिकासंयुक्तराष्ट्रे प्रकाशितम्।

• अमेरिकासंयुक्तराष्ट्रस्य बहिः प्रकाशितं, रचयितुः मृत्योः अनन्तरं ७० वर्षाणि व्यतीतानि।

• तत् अमेरिकासंयुक्तराष्ट्रस्य फेडरल्-सरकारस्य कार्यमस्ति।

• रचयिता स्पष्टतया सार्वजनिके प्रकाशितवान्।

किं सार्वजनिकं, किञ्च न इत्यस्मिन् विषये अधिकविवरणाय विकिमीडिया-सार्वजनिके पश्य, Help:Public domain

प्रमुद्यताम्!

उपलब्धेषु सार्वजनिक-चित्रेषु परिवर्तनम्

सार्वजनिके उपलब्धस्य कस्यापि चित्रस्य परिवर्तितं संस्करणं त्वम् आरोपयितुं शक्नोषि। (यथा, क्रोप् अथवा अङ्कीयं (digital) परिवर्तनं कृत्वा) कानिचन लघूनि परिवर्तनानि कृत्वा त्वं किमपि परिवर्तितं संस्करणं नूतनसञ्चिकात्वेन (file) आरोपयितुं शक्नोषि, वास्तविकेन चित्रेण सह योजयितुं शक्नोषि च।

सार्वजनिकस्य विषये भ्रमाः

“यत्र अधिकारपत्रस्य उल्लेखः नास्ति, तत् चित्रम् अधिकारपत्रस्य अन्तर्गततया नास्ति।”

“अन्तर्जालप्रचलनस्य पूर्वतना या कापि सामग्री अस्ति, ताः अधिकारपत्रद्वारा सुरक्षिता नास्ति।”

“रचनाकारस्य मृत्युः अभवत्, अतः अधिकारपत्रं निरस्तम् अभवत्।”

“एतस्य उपयोगं कर्तुं मया किमपि धनं दातव्यं न भवति, अतः एतत् अधिकारनिषेधात् मुक्तम् अस्ति।”

“एतत् सार्वजनिकरूपेण प्रदर्श्यते , अतः एतत् सार्वजनिकम् अस्ति।”

“एषः कस्यचित् विज्ञापनस्य अंशः अस्ति, अतः सार्वजनिकः अस्ति।”

पृष्ठम् १२

शब्दावली

प्रतिकृति-अधिकारः

कस्यचित् रचनात्मककार्यस्य उपयोगाय, प्रतिकृत्यै (copy) च विशेषाधिकारः निम्नरूपेण प्राप्यते।

प्रतिकृति-अधिकारपत्रम्

अधिकारधारकद्वारा निर्धारितानां केषाञ्चन अवस्थानां पालनं कुर्वन्तः औपचारिकस्य सहमतिपत्रस्य अधिकृतकार्यस्य उपयोगाय अनुमतिं प्राप्नुमः।

क्रिएटिव् कॉमन्स्

जनाः स्वकार्यं वितरितुं शक्नुयुः, अतः किञ्चन अलाभसंस्थानं क्रिएटिव-कॉमन्स्-अधिकार-पत्रं वितरति। क्रिएटिव्-कॉमन्स् इत्यस्य अधिकारपत्रे Attribution license, Attribution-ShareAlike license च अन्तर्भवति, ते द्वे सर्वाधिके बृहती अधिकारमुक्तपत्रे स्तः, ययोः स्वीकारः विकिमीडिया-सार्वजनिकं कृतवत्। क्रिएटिव्-कॉमन्स् इत्यस्य अन्याधिकारपत्रे “No Derivatives” अथवा “Non-commercial” अनुच्छेदः अन्तर्भूतः भवति, तदपि प्रतिबन्धितम् अस्ति, अतः विकिमीडिया-सार्वजनिके तस्य उपयोगः न शक्यते।

अधिकारमुक्तम्

यस्मै कस्मै अपि उद्देशं कर्तुं, कार्यस्य उपयोगं कृत्वा अभ्यासाय, प्रतिकृतिं कृत्वा पुनर्वितरणाय, परिवर्तनं कृत्वा संशोधनाय, मिश्रकार्यत्वेन वितरणं कर्तुं च सार्वजनिक-अधिकारपत्रं सर्वेभ्यः स्वातन्त्र्यं यच्छति। सर्वसामान्यम् अधिकारमुक्तपत्रं Creative Commons Attribution, Attribution-ShareAlike licenses (परन्तु No Derivatives अथवा Non-commercial versions नास्ति), Free Art License, GNU Free Documentation License (GFDL) च अस्ति। अधिकारमुक्तपत्रस्य विस्तृतव्याख्यायै freedomdefined.org पठ।

सार्वजनिकम्

सार्वजनिके स्थितानि कार्याणि कस्यापि अधिकारपत्रस्य अन्तर्गततया निषिद्धानि न भवन्ति। काञ्चन अपवादान् त्यक्त्वा एकवारम् अधिकारपत्रं कालातीतं भवति, तर्हि किमपि कार्यं सार्वजनिकं भवति (प्रकाशनस्य पश्चात् कतिपयेषु दशकेषु अनन्तरम् एवं भवति)।

विकिमीडियाप्रतिष्ठानम्

अलाभ-धर्मादा-संस्थानं, यत् विकिमीडिया-सार्वजनिकं, विकिपीडिया-जालं, अन्यशैक्षणिकप्रकल्पान् च निर्वहति, तत् विकिमीडिया-संस्थानम् (Wikimedia Foundation) केलिफोर्निया-देशस्य सान्-फ्रान्सिस्को-महानगरे स्थितम् अस्ति। सम्पूर्णविश्वस्य तादृशान् जनान् प्रोत्साहितान् कृत्वा, संघटितान् कृत्वा च शैक्षणिकक्षेत्रे अधिकारमुक्त-सामग्रीणां निर्माणम् अथवा सार्वजनिके प्रकाशनं, वैश्विकस्तरे प्रभावकारि प्रचारादिकं च कारणीयम् इति तस्य कार्यम् अस्ति।

कानिचत् विशेषनिर्देशनयुक्तानि चित्राणि विहाय विकिमीडिया-सार्वजनिके सर्वाणि चित्राणि CC BY-SA अधिकारे अथवा सार्वजनिके अन्तर्भवन्ति। सर्वाणि चित्राणि रचनात्मक-सार्वजनिकस्य (Creative Commons) अन्तर्गततया Attribution-ShareAlike इत्यस्य ३.० संस्करणे अथवा आगामिसंस्करणेषु उपलब्धानि भवन्ति।

विकिमीडिया-संस्थानस्य, अन्यसंस्थानां सान्दर्भिकाः, चिह्नानि च रचनात्मक-सार्वजनिक-अधिकारे न अन्तर्भवन्ति। विकिमीडिया-संस्थानस्य काश्चित् सान्दर्भिकाः पञ्जीकृताः सन्ति, काश्चिच्च सान्दर्भिकाः पञ्जीकरणाय क्रमे सन्ति, तासाम् आवलिः एवम् अस्ति - विकिमीडिया-संस्थानं (फाउण्डेशन्), विकिपीडिया, विकिमीडिया-सार्वजनिकम्, मीडियाविकि, विकिकोशः, विकिपुस्तकम्, विकिडाटा, विकिसमाचारः, विकिसूक्तिः, विकिविद्यालयः, विकियात्रा, विकिजन्तु, मेटा-विकि च।

http://wikimediafoundation.org/wiki/Trademark_Policy. अत्र अस्माकं व्यवसायनीतिं दृष्ट्वा अधिकं विवरणं प्राप्यताम्।

legal@wikimedia.org अत्र वि-पत्रं कृत्वा अस्माकं व्यवसायनीतिविषये अथवा अधिकारनियमविषये प्रश्नं कर्तुं शक्नुयात।

विकिमीडिया-संस्थानं, विकिमीडिया-सार्वजनिकम् इत्येतयोः सदस्यैः एतत् पाठ्यं निर्मितम् अस्ति।

EXBROOK, San Francisco द्वारा परिकल्पना

माइकल् बर्टलोस् द्वारा वाक्यगुम्फनं, सचित्रणं च